कर्पूरगौरं करुणावतारं संसारसारम् भुजगेन्द्रहारम् आरती मंत्र

karpur gauram karunavtaram, karpur gauram song, karpur gauram lyrics, karpur aarti, karpur gauram aarti

कर्पूरगौरं आरती - Karpur Gauram Aarti Lyrics

कर्पूरगौरं करुणावतारं संसारसारम् भुजगेन्द्रहारम् ।
सदावसंतं हृदयारविंदे भवं भवानी सहितं नमामि ।।

मन्दारमालाकुलितालकायै कपालमालांकितकन्धराय। दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय ।।

श्री अखण्डानन्दबोधाय शोकसन्तापहारिणे। सच्चिदानन्दस्वरूपाय शंकराय नमो नमः ।।

त्वमेव माता च पिता त्वमेव । त्वमेव बंधुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणम् त्वमेव । त्वमेव सर्वम् मम देव देव ।।

कायेन वाचा मनसेंद्रियैर्वा बुद्ध्यात्मना वा प्रकृतिस्वभावात् । करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि ।।

गुरुब्रम्हा गुरुर्विष्णु गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परब्रम्हा तस्मै श्री गुरुवे नमः ।।
अखडं मण्डलाकारं, व्याप्तं येन चराचरम्।
तत्पदं दर्शितं येन, तस्मै श्री गुरुवे नमः।।

टिप्पणियाँ